पृष्ठम्:काव्यसंग्रहः.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उद्धवसन्देशः । यथाक्रूरः प्रणयनिविडोत्कण्डया गुडितात्मा रङ्गाङ्गोष्ठाङ्गनमनुसरन् मामलोकिष्ट बन्धं । तद्दास्पाम्भःकुलपरिचयारन्धजम्मैः कदम्बेः सा सम्बीता विलसति तटी यच सौयाचिकाख्या ॥ ३३ ॥ धावद्दालावलिकरतलप्रोञ्चलद्दालधीनां यजोत्तुनस्फटिकपटलस्यर्बुदेहद्युतीना॑ । प्रायं ब्रायं नवतृणशिखां मुबतीनां वलन्ते वत्सालीनां चटुलपटुलं शवदाटीकनानि ॥ ३४ ॥ आभीरीणां नयनसरणीसङ्गमादेव तासां सद्यो मोट्टायितमधुरिमोल्लासभङ्गीविधाता । पोठीभूतो मम परिमलोहारगोष्ठीगरीयान् यत्रास्थानीमनुविजयते पाण्डरो गरुडभैलः ॥ ३५ ॥ रेणुर्नायं प्रसरति गवां धूमधारा कृशानोर् बेणुर्नासौ गहनकुइरे कीचको रोरवीति । पश्योन्मत्ते रविरभिययौ नाधुनापि प्रतीचीम् मा चाञ्चल्यं कलय कुचयोः पत्रवलीं तनोमि ॥ ३६॥ दूरे वंशीध्वनिरुदयते इन्त मा धाव ताषद् धूखेदानीमपि नहि गर्यो लक्ष्यते धूलिलेखा अस्ति द्वारे गुरुरपि ततो लम्बितां स्तम्भयन्ती क्षीरे नीव त्वमिह तरसा याहि गेहान्तरालं ॥ ३७ ॥ आप्रत्यूषादपि सुमनसा वीथिभिग्रव्यमाना धत्ते नासौ सखि कथमहो वैजयन्ती समाप्तिं । २ ज 42:7ed by Google ३२९