सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२८
उद्धवसन्देशः ।


वीथ्यां वीथ्यां पृथुकनिकरा यत्र मित्रानुवेलं.
खेलन्तस्ताननुविदधते विक्रमान्मे क्रमेण ॥ २७ ॥
दूरादेष प्रणयति पुरा लब्धसाहारनामा
प्रेमानन्दं तव नयनयोरौपनन्दो निवासः ।
जंघालेन क्षितिपतिपुरीं स्यन्दनेनानुविन्दन्
यत्राहारं प्रियमकरवं हारि हैयङ्गवीनं ॥२८॥
गोपेन्द्रस्य ब्रजपरिसरे लब्धतुष्टिर्लभेथाः
तां विख्यातां कलितमहिलाचारुहेलां रहेलां ।
यामासाद्य प्रहितमुरलीकाकलीदूतिकोहं
सायं गोपीकुलमकरवं सामि नेपथ्यनद्धं ॥ २८ ॥
यत्र प्रीतानहमकरवं मित्रभावेन शावान्
हारं हारं विदितसमयो वल्लवीनां दधीनि ।
शाखिव्रातः स खलु वलितः प्रीतशावाभिधस्ते
देशः क्लेशं पथिषु रथिनो दारयिष्यत्युदारम् ॥ ३० ॥
सोयं रम्भानटनचटुलैः सेव्यमानो मरुद्भिः.
कम्राशोकोत्तमसुमनसां निर्भरामोदधारी ।
पीयूषेण स्फुरितवसतिस्त्वामुदञ्चद्गुरुश्रीर्
लोकातीतः किल मदयिता वल्लवेन्द्रस्य लोकः ॥ ३१ ॥
पश्यन्तीनां चकितचकितं लब्धसङ्गं शताङ्गे
मामुत्तुङ्ग्व्यसनविसरैः काममुन्मादितानां ।
तासां विद्युत्तरलवपुषां बल्लवीनां प्रपाताद्
विद्युत्कारीं कथयति जनो दक्षिणां यस्य कक्षां ॥ ३२ ॥