सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२७
उद्धवसन्देशः ।


वल्लीचित्रं ब्रज मृगहरं तं ब्रजस्योपशल्ये
कल्ये क्रीडावनविहरणोत्कण्ठया गच्छतो मे ।
यत्रोदञ्चत् कलवलयितैर्वेणुगीतैर्मृगाणां
तूर्णं राजीरजनिविरहव्याकुलानामहारि ॥ २२ ॥
आनम्राणां हसितमुकुलैः फुल्लगरुडस्थलानां
दूराद्दृष्टिं स्फुटसुमनसां स्यन्दने मु़ञ्चतीनां ।
ते वैदग्धीपरिमलकिरो यत्र सीमन्तिनीनां
सस्रुर्वाणावलिविलसिता रुद्धलक्ष्याः कटाक्षाः ॥ २३ ॥
एष श्रीमान् प्रवसति रथी माधवो राधिकायाः
प्रेम स्थूलंकरणकुटिलालोकभङ्गीविलासः ।
इत्यौत्सुक्यावरयुवतिभिः स्मारितोद्दामनर्मा
घर्माम्भोभिर्वृततनुरहं यत्र चित्रायितोस्मि ॥ २४ ॥
लीलास्वप्नो मम विजयते यत्र नागेन्द्रभोगे
श्रीराधाङ्गीकृतपदयुगाम्भोजसंवाहनस्य ।
तत्र क्षीराम्बुधिपरिमलस्पर्धने वद्धहस्ते
ग्रामे कामं ध्वजवति भजे बद्धविश्रामसौख्यं ॥ २५ ॥
सोयं दध्नां मथननिनदाक्रान्तदिक्चक्रवालो
घोषस्तोषं तव जनयिता योजनद्वन्द्वचुम्बी ।
दिव्येनालं निखिलजगतीं सर्पिषा तर्पयन्ती
भ्रातर्भूम्ना विलसति विधेर्गोमयी यत्र सृष्टिः ॥ २६ ॥
कक्षां लक्षावधिभिरभितः कासरीभिः परीतां
तां सन्नद्धब्रजविजयिनीं शाल्मलाख्यां भजेथाः ।