सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२६
उद्धवसन्देशः ।


यत्रापूर्वं किमपि कलयाश्चक्रतुर्मत्प्रभावात्
आभीराणां कुलमपि तथा गान्धिनीनन्दनोपि ॥ १६
यज्वानस्ते यदपि भवतो विप्रिया हेलनान्मे
नम्रस्तेषां तदपि भवनद्वाररथ्यां जिहीथाः ।
गायन्तीनां मदनुचरितं तत्र विप्राङ्गनानाम्
आलोकाय स्पृहयसि न चेदीक्षणैर्वञ्चितोसि ॥ १७ ॥
तद्विख्यातं स्फुटविटपिनां मण्डलेनाभिपूर्णं
तूर्णं गच्छेरुपपुरिपुरः कोटिकाख्यं प्रदेशं ।
यत्र प्राप्ते मयि विकिरती नेत्रमुद्यानपाली
शालीनापि प्रकटितभुजा मूलमल्पं जहास ॥१८॥
इत्थं क्रान्त्वा पुरपरिसरान् याहि सट्टीकराख्यं
पट्टीभूतं भ्रमरनृपतेः पुष्पितारण्यमारात् ।
श्रीदामानं सुभग गरुडीकृत्य यत्राधिरूढः
क्रीडाकारी दधदुरुभुजां दादशाहं वसामि ॥ १९ ॥
मुग्धे श्यामः कलयति युवा पश्य मामेव नत्वाम्
इत्युल्लासैरहमहमिकां सर्वतः कुर्वतीभिः ।
यानालम्बी सरलनयनालोकमैत्रीभराणां
ग्रामीणाभिर्युवतिभिरहं यत्र पात्रीकृतोस्मि ॥ २० ॥
मुञ्चन् सव्ये वहुलवहुलां काननस्योपशल्यं
तञ्चोतुङ्गं हृदपरिसरं दक्षिणे कालियस्य ।
फुल्लाभिस्त्वं पिहितमिहिरद्योतमन्तर्लताभिर्
धीराध्वानं विमलसरसीराजिभाजं भजेथाः ॥ २१ ॥