सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२५
उद्धवसन्देशः।

भ्रातर्नन्दीश्वरगिरिमितो यास्यतस्ते विदूरं
पन्थाः श्रीमानयमकुटिलः कथ्यते पथ्यरूपी ।
प्रीये सद्यस्त्वयि निपतिते गोकुलानन्दसिन्धौ
सन्तस्तुष्टे सुहृदि हि निजां तुष्टिमेवामनन्ति ॥ ११॥
अग्रे गौरीपतिमनुसरेः पत्तनान्तर्वसन्तं
गोकर्णाख्यं व्यसनजलधौ कर्णधारं नराणां ।
यस्याभ्यर्णे सह रविजया सङ्गमो जङ्गमानाम्
आविष्कुर्वन्नभिमतधुरां धीर सारस्वतोस्ति ॥ १२ ॥
आरूढस्ते नयनपदवीं तन्वि धन्यासिसोयं
गोपीनग्नीकरणमुरलीकाकलीक: कलावान् ।
इत्यालापस्फुरितवदनैर्यत्र नारीकदम्बैर्
दृग्भङ्गीभिः प्रथममथुरासङ्गमे चुम्बितोस्मि ॥ १३ ॥
तस्मादन्तर्विरचितपरानन्दपूराददूरां
याहि प्रीत्या सपदि पदवीमम्बिकाकाननस्य ।
यत्रानन्दोत्सवमकरवं सर्पतः सर्पतोयात्
नन्दं विद्याधरमपि पुरा मोचयन् वल्लवीनां ॥ १४ ॥
भूयोभिस्त्वं किल कुवलयापीडदन्तावघातैर्
एतां निम्नोन्नतपरिसरां स्यन्दने वर्तमानः ।
मुञ्चोत्तुङ्गां मिहिरदुहितुर्धीरतीरान्तभूमिं
मन्दाक्रान्तां न खलु पदवीं साधवः शीलयन्ति ॥ १५ ॥
मुञ्चासव्ये विहगरुचिरं किश्चिदस्मादुदञ्चं
राजत्तीरं नवसुमनसां राजिभिस्तीर्थराजं ।