पृष्ठम्:काव्यसंग्रहः.pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• ३२४ उद्धवसन्देशः । वल्लव्यस्ता विरहदहमञ्चालिकामण्डलीनाम् अन्तर्लोनाः कथमपि सखे जीवितं धारयन्ति ॥ ५ ॥ प्राणेभ्यो मे प्रस्पयवसतिर् मित्र तथापि राधा धातुः सृष्टौ मधुरिमधुराधारणादद्वितीया । वाचोयुक्तिस्तवकितपदैरद्य सेयं सखीनां गाढाश्वासैर्विधुरविधुरं प्रभारं विभर्ति ॥ ६ ॥. गत्वा नन्दीश्वरशिखरिणो मेखलां रत्नभूतां त्वं वलीभिर्वलयितनगां वल्लवाधीशपलीं । तां दष्टाङ्ग विरहफसिना प्रासयन् प्रीण्याती वार्तामन्यध्वनिभिरश मे मन्त्रिचूडामणीन्द्र ॥ ७॥ तिष्ठन्त्येते जगति वहवस्त्वडिधानां विधातुं चेतः पूर्ति ननु जनपदामूर्तिभिर्मे सनाथाः । भूयोभूयः प्रियसख शपे तुभ्यमध्याजतोऽहं भूरन्या मे हृदि सुखकरी गोष्ठतः कापि नास्ति ॥ ८॥ महिलेपज्वलनपटलीज्वाला जर्जरानीः सर्वे तस्मिन्निधमपदवीं शाखिनोप्या श्रविश्यम् । गोपीनेचावलिविगलितैर् भूरिभिर्वास्थवारां पूरैस्तेषां यदि निरवधिर्नाभिषेको ऽभविष्यत् ॥ ९ ॥ आत्मक्लेशैरपि नहि तथा मेहर व्यथन्ते . वल्लव्यस्ताः प्रियसख यथा मद्यथालेशतोपि । दुर्वारां मे विरहविधितां निहुवानस्तदार्ति प्रेमयन्थिं त्वमतिपृथुलं तासु विख्यापयेथाः ॥ १० ॥ : Pigi, red by Google