सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२३
उद्धवसन्देशः।

सान्द्रीभूतैर्नवविटपिनां पुष्पितानां वितानैर्
लक्ष्मीवत्तां दधति मथुरापत्तने दत्तनेत्रः ।
कृष्णः क्रीडाभवनवडभीमूर्ध्नी विद्योतमानो
दध्यौ सद्यस्तरलहृदयो गोकुलारण्यमैत्रीं ॥ १ ॥
श्वासोल्लासैरथ तरलितस्थूलनालीकमाल:
कुर्वन् पूर्णा नयनपयसां चक्रवालैः प्रनालीः ।
स्मारं स्मारं प्रणयनिविडां वल्लवीकेलिलक्ष्मीं
दीर्घोत्कण्ठाजटिलहृदयस्तत्र चित्रायितोभूत्॥ २॥
अन्तःस्वान्ते क्षणमथ परामृष्य पाराभिलाषी
कष्टाम्भोधेर्भवनशिखरे कुट्टिमान्तर्निविष्टः ।
सोत्कण्ठोभूदभिमतकथां संशितुं कंसभेदी
नेदिष्ठाय प्रणयलहरीवडवद्धवागुद्धवाय ॥ ३॥
त्वं सर्वेषां मम गुणमिधे वान्धवानां प्रधानं
त्वत्तो मन्त्रैः श्रियमबिचलां यादवाः साधयन्ति ।
इत्याश्वासादभिमतविधौ कामये त्यां नियोक्तुं
न्यस्तः साधीयसि सफलतामर्थभारः विधत्ते॥ ४ ॥
संरम्भेण क्षितिपतिगिरां लम्भिते गर्वितानां
वृन्दारण्यान्मयि मधुपुरीं गान्धिनीनन्दनेन ।