विषं चंक्रमणं रात्रौ विषं राज्ञोऽनुकूलता।
विषं स्त्रियोऽप्यन्यहृदो विषं व्याधिरवीक्षितः ॥९७॥
दुरधीता विषं विद्या अजीर्णे भोजनं विषं ।
विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषं ॥९८॥
प्रदोषे निहतः पन्थाः पतिता निहताः स्त्रियः ।
अल्पबीजं हतं क्षेत्रं भृत्यदोषाद् हतः प्रभुः ॥९९॥
हतमश्रोत्रियं श्राद्धं हतो यज्ञस्त्वदक्षिणः ।
हता रूपवती वन्ध्या हतं सैन्यमनायकं ॥१००।।
वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः ।
आशीर्वादवचोयुक्त एष राजपुरोहितः ॥१०१॥
कुलशीलगुणोपेतः सर्वधर्मपरायणः ।
प्रवीणः प्रेषणाध्यक्षो धर्माध्यक्षो विधीयते ॥१०२॥
आयुर्वेदकृताभ्यासः सर्वेषां प्रियदर्शनः ।
आर्यशीलगुणोपेत एष वैद्यो विधीयते ॥१०३॥
सकृदुक्तगृहीतार्थो लघुहस्तो जिताक्षरः ।
सर्वशास्त्रसमालोकी प्रकृष्टो नाम लेखकः ॥१०४॥
समस्तनीतिशास्त्रज्ञो वाहने पूजितश्रमः ।
शौर्यवीर्यगुणोपेतः सेनाध्यक्षो विधीयते ॥१०५॥
मेधावी वाक्पटुः प्राज्ञः परचित्तोपलक्षकः ।
धीरो यथोक्तवादी च एष दूतो विधीयते ॥१४६॥
पुत्रपौत्रगुणोपेतः शास्त्रज्ञो मिष्टपाचकः ।
शूरश्च कठिनश्चैव सूपकारः स उच्यते ॥१०७॥
पृष्ठम्:काव्यसंग्रहः.pdf/३३४
दिखावट
पुटमेतत् सुपुष्टितम्
३२१
चाणक्यशतकं ।