पृष्ठम्:काव्यसंग्रहः.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२०

-

चाणक्यशतक ।

बहुभिर्मूर्खसंघातैरन्योन्यपशुदृत्तिभिः । प्रच्छाद्यन्ते गुणाः सर्वे मेधैरिव दिवाकरः ॥ ८७ ॥ यस्य क्षेचं नदीतीरे भार्या वापि परप्रिया ।

पुचस्य विनयो नास्ति स्वत्युरेव न संशयः ॥ ८८ ॥ श्रसंभाव्यं न वक्तव्यं प्रत्यक्षमपि दृश्यते । शिला तरति पानीयं गीतं गायति वानरः ॥ ८९ ॥

सुभिक्षं कृषके नित्यं नित्यं सुखमरोगिणि ।

भार्या भर्तुः प्रिया यस्य तस्य नित्योत्सवं ऋई ॥ ९० ॥ हेखा स्यात् कार्यनाशाय बुद्धिनाशाय निर्धनं । याचना माननाशाय कुलनाशाय भोजनं ॥ ९१ ॥ सेवितव्यो महादृक्षः फलच्छायासमन्वितः ।

यदि दैवात् फलं नास्ति छाया केन निवार्यते ॥ ९२ ॥ प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनं ।

वृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यति ॥ ९३ ॥ नदीकुले च ये दृक्षाः परहस्तगतं धनं ।

कार्ये स्त्रीगोचरो यत् स्यात् सर्वे तद्दिफखम्भवेत् ॥ ९४ ॥ कुदेशमासाद्य कुतोऽर्थसञ्चयः कुपुचमासाद्य कुतो जलाञ्जखिः ।

-

कुगेहिनीं प्राप्य यचे कुतः सुखं कुशिष्यमध्यापयतः कुतो यशः ॥ ९५ ॥

कूपोदकं वटच्छाया श्यामा खी चेष्टकाखयं । शीतकाले भवेदुष्णं ग्रीषाकाले च शीतखं ॥ ९६ ॥ A