पृष्ठम्:काव्यसंग्रहः.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चाणक्यशतकं । समुद्रावरणा भूमिः प्राकारावरणं गृहं । नरेन्द्रावरणा देशाञ्चरित्रावरणाः स्त्रियः ॥ ७६ ॥ घृतकुम्भसमा नारी तप्ताङ्गारसमः पुमान् । तस्माद् घृतश्च वलिश्च मैकच स्थापयेदुधः ॥ ७७ ॥ आहारी हिगुणः स्त्रीणां वुविस्तासां चतुर्गुणा । षड्गुणो व्यवसायञ्च कामञ्चाष्टगुणः स्मृतः ॥ ७८ ॥ जीर्णमन्त्रं प्रशंसीयात् भार्याञ्च गतयौवनां । रणात् प्रत्यागतं शूरं शस्य च गृहमागतं ॥ ७९ ॥ असन्तुष्टा हिजा नष्टाः सन्तुष्टा इव पार्थिवाः | सलज्जा गणिका मष्टा निर्लज्जाच कुलस्त्रियः ॥ ८० ॥ अवंशपतितो राजा मूर्खपुत्रञ्च पण्डितः । अधनेन धनं प्राप्य तृणवन्मन्यते जगत् ॥ ८१ ब्रह्मचापि नरः पूज्यो यस्यास्ति विपुलं धनं । शशिनस्तुल्यवंशोऽपि निर्धमः परिभूयते ॥ ८२ ॥ पुस्तकस्था तु या विद्या परहस्तगतं धनं । कार्यकाले समुसृपये न सा विद्या न तद्दनं ॥ ८३ ॥ पादपानां भयं वातात् पद्मानां शिशिराद् भयं । पर्वतानां भयं बजात् साधूनां दुर्जनाद् भयं ॥ ८४ ॥ प्राझे नियोज्यमाने तु सन्ति राजस्त्रयो गुणाः । यशः स्वर्गनिवासञ्च विपुलञ्च धनागमः ॥ ८५ ॥ मूर्खे नियोज्यमाने तु चयो दोषा महीपतेः । अयशञ्चार्थनाशंञ्च नरके गमनं तथा ॥ ८६ ॥ by Google Digitzed by ३१९