पृष्ठम्:काव्यसंग्रहः.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चाणकाशतकं । दुर्लभं प्राकृतं वाक्यं दुर्लभः क्षेमकृत् सुतः । दुर्लभा सदृशी भार्या दुर्लभः स्वजनः प्रियः ॥ ५४ ॥ शैले शैले न माणिक्यं मौतिकं न गजे गजे । साधवो नहि सर्वत्र चन्दनव वने वने ॥ ५५॥ अशोच्यो निर्धनः प्राज्ञोऽशोच्चः पण्डितवान्धवः । अशोच्या विधवा नारी पुत्रपौचप्रतिष्ठिता ॥ ५॥ अविद्यः पुरुषः शोच्यः शोच्यं मैथुनममजं । निराहाराः प्रजाः शोच्याः शोच्चं राज्यमराजकं ॥ ५७ ॥ कुलीनैः सह सम्पर्क पण्डितैः सह मित्रतां । शातिभित्र समं मेलं कुर्वाणो न विनश्यति ॥ ५८ ॥ कष्टा वृत्तिः पराधिना कष्टो वासो निराश्रयः । निर्धनो व्यवसायश्च सर्वकष्टा दरिद्रता ॥ ५८ ॥ तस्करस्य कुतो धर्मो दुर्जनस्य कुतः क्षमा । वेश्यानाञ्च कुतः स्नेहः कुतः सत्यञ्च कामिनां ॥ ६० प्रेषितस्य कुतो मानं कोपनस्य कुतः सुखं । स्त्रीणां कुतः सतीत्वश्च कुतो मैचो खलस्य च ॥ ६१ दुर्बलस्य बलं राजा बालानां रोदनं बलं । बलं मूर्खस्य मौनित्वं चौराणाममृतं बलं ॥ ६२ यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥ ६३ ॥ शुष्कं मांसं स्त्रियो दृड्डा वालार्कस्तरुणं दधि | प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट् ॥ ६४ # gt red by Google Digi: