सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१७
चाणक्यशतकं ।


दुर्लभं प्राकृतं वाक्यं दुर्लभः क्षेमकृत् सुतः ।
दुर्लभा सदृशी भार्या दुर्लभः स्वजनः प्रियः ॥ ५४ ॥
शैले शैले न माणिक्यं मौक्तिकं न गजे गजे ।
साधवो नहि सर्वत्र चन्दनं न वने वने ॥ ५५॥
अशोच्यो निर्धनः प्राज्ञोऽशोच्यः पण्डितवान्धवः ।
अशोच्या विधवा नारी पुत्रपौत्रं प्रतिष्ठिता ॥ ५६॥
अविद्यः पुरुषः शोच्यः शोच्यं मैथुनमग्रजं ।
निराहाराः प्रजाः शोच्याः शोच्यं राज्यमराजकं ॥ ५७ ॥
कुलीनैः सह सम्पर्कं पण्डितैः सह मित्रतां ।
ज्ञातिभिश्च समं मेलं कुर्वाणो न विनश्यति ॥ ५८ ॥
कष्टा वृत्तिः पराधिना कष्टो वासो निराश्रयः ।
निर्धनो व्यवसायश्च सर्वकष्टा दरिद्रता ॥ ५९ ॥
तस्करस्य कुतो धर्मो दुर्जनस्य कुतः क्षमा ।
वेश्यानाञ्च कुतः स्नेहः कुतः सत्यञ्च कामिनां ॥ ६०
प्रेषितस्य कुतो मानं कोपनस्य कुतः सुखं ।
स्त्रीणां कुतः सतीत्वञ्च कुतो मैत्री खलस्य च ॥ ६१
दुर्बलस्य बलं राजा बालानां रोदनं बलं ।
बलं मूर्खस्य मौनत्वं चौराणाममृतं बलं ॥ ६२
यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥ ६३ ॥
शुष्कं मांसं स्त्रियो दृष्ट्वा वालार्कस्तरुणं दधि |
प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट् ॥ ६४ ।।