सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१६ चाणक्यशतकं ।

दुष्टा भार्या शठं मित्र भृत्ययोत्तरदायकः ।
ससपेंच सृहे वासो मृत्यदेव न संशयः ॥ ४२ ॥
माता यस्य गृहे नास्ति भार्या चाप्रियवादिनी ।
चरण्यं तेन गन्तव्यं यथारण्यं तथा ग्रई ॥ ४४ ॥
ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी ।
भार्या रूपवती शत्रुः पुचः शत्रुरपण्डितः ॥ ४५ ॥
कोकिलानां स्वरो रूपं मारीरूपं पतिव्रता ।
विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनां ॥ ४६
अविद्याजीवनं शून्धं दिक् शून्या चेदवान्धवा |
पुषहीनं गृहं शून्यं सर्वशुन्या दरिद्रता ॥ ४७ ॥
अदाता वंशदोषेण कर्मदोवाहरिद्रता ।
उन्मादो मातृदोषेण पितृदोषेण मूर्खता ॥४८ ॥
गुरुरग्निर्द्धिजातीनां वर्णानां ब्राह्मणो गुरुः ।.
पतिरेको गुरुः स्त्रीयां सर्वचाभ्यागतो गुरुः ॥ ४८ #
अतिदर्पे इता लगा अतिमाने च कौरवाः ।
अतिदाने वलिर्वज्ञः सर्वमत्यन्तगतिं ॥ ५० ॥
वस्वहीनत्वलारो घृतहीनद भोजनं ।.
स्तनहीना च या नारी विद्याहीमच्च जीवनं ॥ ५१ #
भोज्यं भोजनशक्तिश्च रतिशक्तिर्वराः स्त्रियः ।
विभवो दानशक्तिञ्च नाल्पस्य तपसः फलं ॥ ५२ ॥
पुचप्रयोजना दाराः पुचः पिण्डप्रयोजनः ।
हितप्रयोजनं मित्रं धनं सर्वप्रयोजनं ॥ ५३