सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१५
चाणक्यशतकं ।

चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् ।
नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ ३२ ॥
लुब्धमर्थेन ग्रहीयात् कुहमञ्जलिकर्मणा ।
मूर्ख छन्दोनु वृत्तेन तथा तथ्येन पण्डितं ॥ ३३ ॥
अर्थनाशं मनस्तापं गृहे दुञ्चरितानि च ।
वश्चनच्चापमानञ्च मतिमान् न प्रकाशयेत् ॥ ३४ ॥
धनधान्यप्रयोगेषु तथा विद्यागमेषु च ।३१५
आहारे व्यवहारेच त्यक्त लज्जः सदा भवेत् ॥ ३५ ॥
धनिनः श्रोजियो राजा नदी वैद्यस्तु पञ्चमः ।
पञ्च यत्र म विद्यन्ते तत्र वासं न कारयेत् ॥ ३६ ॥
यस्मिन् देशे न सम्मानं न प्रीतिर्न च वान्धवाः ।
नच विद्यागमः कच्चित् तंदेशं परिवर्जयेत् ॥ ३७
मनसा चिन्तितं कर्म वचसा न प्रकाशयेत् ।
अन्यलक्षित कार्यस्य यतः सिड्डि र्न जायते ॥ ३८ ॥
कुदेशञ्च कुवृत्तिच कु भार्या .कुनदीं तथा ।
कुद्रव्यश्च कुभोज्यश्च वर्जयेच विचक्षणः ॥ ३८ ॥
ऋणशेषो ऽमिशेषश्च व्याधिशेषस्तथैव च ।
पुनश्च वर्द्धते यस्मात्तस्मात् शेषं न कारयेत् ॥ ४० ॥
चिन्ता ज्वरो मनुष्याणां वस्त्राणामातपो ज्वरः ।
असौभाग्य' ज्वरः स्त्रीणामश्वानां मैथुनं ज्वरः ॥ ४१ ॥
अस्ति पुत्रो वशे यस्य भृत्यो भार्या तथैव च ।
भावे सति सन्तोषः स्वर्गस्थोऽसौ महीतले ॥ ४२ ॥