पृष्ठम्:काव्यसंग्रहः.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चाणक्यशतकं । चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् । नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ ३२ ॥ सुन्धमर्थेन ग्रहीयात् कुहमञ्जलिकर्मणा । मूर्ख इन्दोनुहत्तेन तथा तथ्येन पण्डितं ॥ ३३ ॥ अर्थनाशं मनस्तापं गृहे दुञ्चरितानि च । वश्चनच्चापमानञ्च मतिमान् न प्रकाशयेत् ॥ ३४ ॥ धनधान्यप्रयोगेषु तथा विद्यागमेषु च । ३१५ व्यवहारेच त्यक्तलग्नः सदा भवेत् ॥ ३५ ॥ धनिनः श्रोजियो राजा नदी वैद्यस्तु पञ्चमः । पञ्च यत्र म विद्यन्ते तत्र वासं न कारयेत् ॥ ३६ ॥ यस्मिन् देशे न सम्मानं न प्रीतिर्न च वान्धवाः । नच विद्यागमः कच्चित् तंदेशं परिवर्जयेत् ॥ ३७ मनसा चिन्तितं कर्म वचसा न प्रकाशयेत् । अन्यलक्षित कार्यस्य यतः सिडिर्न जायते ॥ ३८ ॥ कुदेशञ्च कुरत्तिच कुभाय कुनदीं तथा । कुद्रव्यश्च कुभोज्यश्च वर्जयेच विचक्षणः ॥ ३८ ॥ ऋणशेषो ऽमिशेषश्च व्याधिशेषस्तथैव च । पुनश्च वर्द्धते यस्मात्तस्मात् शेषं न कारयेत् ॥ ४० ॥ चिन्ता ज्वरो मनुष्याणां वस्त्राणामातपो ज्वरः । असौभाग्य' ज्वरः स्त्रीणामश्वानां मैथुनं ज्वरः ॥ ४१ ॥ स्ति पुत्रो वशे यस्य भृत्यो भार्या तथैव च । भावे सति सन्तोषः स्वर्गस्थोऽसौ महीतले ॥ ४२ ॥ Digitized by Google