पृष्ठम्:काव्यसंग्रहः.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१४ चाणक्यशतकं जानीयात् प्रेषणे भृत्यान् वान्धवान् व्यसनागमे । मिचम्चापदि काले च भार्यान्च विभवक्षये ॥ २१ ॥ उपकारग्टहीतेन शत्रुणा शचुमुहरेत् । पादलग्नं करस्थेन कंटकेनेव कंटकं ॥ २२ ॥ न कश्चित् कस्यचिम्मिच न कश्चित् कस्यचिद्रिपुः । कारणेन हि जानाति मित्राणि च रिपुंस्तथा ॥ २३ ॥ दुर्जनः प्रियवादी च नैतविश्वासकारणं । मधु तिष्ठति जियाये हृदये तु इलाहलं ॥ २४ ॥ दुर्जनः परिहर्तव्यो विद्ययालकृतोऽपि सः । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ २५ ॥ सर्पः क्रूरः : खलः क्रूरः सर्पात् क्रूरतरः खलः । मन्त्रौषधिषशः सर्पः खलः केन निवार्यते ॥ २६ ॥ नखिनाच नदीनाच शृङ्गियां शस्त्रपाणिनां । विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥ २७॥ इस्ती इस्तसहस्त्रेण प्रशतहस्तेम वाजिनः । शृङ्गणो दशहस्तेन स्थानत्यागेन दुर्जनः ॥ २८ ॥ आपदर्थं धनं रक्षेत् दारान् रक्षेचनैरपि । आत्मानं सततं रक्षेदारैरपि धनैरपि ॥ २८ ॥ परदारं परद्रव्यं परीवादं परस्य च । परीहासं गुरोः स्थाने चापल्यञ्च विवर्जयेत् ॥ ३० ॥ त्यजेदेकङ्गुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ ३१ ॥ Digized by by Google