पृष्ठम्:काव्यसंग्रहः.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चाणक्यशतकं । वरमेको गुणी पुत्रो नच मूर्खशतैरपि । एकञ्चन्द्रस्तमो हन्ति नच तारागखैरपि ॥ १० ॥ खालयेत पश्च वर्षाणि दश वर्षाणि ताडयेत् । प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ॥ ११ ॥ लालने वहवो दोषास्ताडने वहवो गुणाः । तस्मात् पुत्रञ्च शिष्यच्च साडयेनतु खालयेत् ॥ १२ ॥ एकेनापि सुरक्षेण पुष्पितेन सुगन्धिना | वासितं तद्दनं सर्वे सुपुत्रेण कुलं यथा ॥ १३ ॥ एकेनापि कुरक्षेण कोटरस्थेन वहिना | दच्यते तद्दनं सर्वं कुपुत्रेण कुलं यथा ॥ १४ ॥ दूरतः शोभते मूर्खो लम्बशाटपटादृतः । तावच्च शोभते मूर्खो यावत् किश्चिन्न भाषते ॥ १५ ॥ विषादप्यमृतं ब्रायममेध्यादपि काञ्चनं । नीचादयुतमां विद्यां स्त्रीरत्वं दुष्कुलादपि ॥ १६ ॥ उत्सवे व्यसने चैव दुर्भिक्षे शत्रुविग्रहे । राजद्वारे श्मसाने च यस्तिष्ठति स वान्धवः ॥ १७ ॥ परोक्षे कार्यहन्तारं प्रत्यक्षं प्रियवादिनं । वर्जयेतादृशं मिश्र’ बिषकुम्भं पयोमुखं ॥ १८ ॥ सलहुष्टश्च मिचं यः पुनः सन्धातुमिच्छति । स मृत्युमुपगृहाति गर्भमश्वतरी यथा ॥ १८ ॥ न विश्वसेदविश्वस्तं मित्रञ्चापि न विश्वसेत् । कदाचित् कुपितं मित्रं सर्वदोषं प्रकाशयेत् ॥ २० ॥ व 1 figt: red by Google ३१३