पृष्ठम्:काव्यसंग्रहः.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२ चाणक्य शतकं । नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्छयं । सर्ववीजमिदं शास्त्रं चाणकां सारसंग्रहं ॥ १ n मूलसूचं प्रवक्ष्यामि चाणकोन यथोदितं । यस्य विज्ञानमात्रेण मूर्खो भवति पण्डितः ॥ २ ॥ विद्यत्त्वञ्च टपत्वञ्च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा विद्दान् सर्वच पूज्यते ॥ ३ ॥ पण्डिते च गुणाः सर्वे मूर्खो दोषा हि केवलं । तस्मान्मूर्खसहस्रेषु प्राज्ञ एको विशिष्यते ॥ ४ ॥ मातृवत् परदारेषु परद्रव्येषु लोष्ट्रवत् । आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः ॥ ५ ॥ किं कुलेन विशालेन गुणहीनस्तु यो नरः । अकुलीमोऽपि शास्त्रज्ञो दैवतैरपि पूज्यते ॥ ६ ॥ रूपयौवनसम्पन्ना विशालकुलसम्भवाः । विद्याहीना न शोभन्ते निर्गन्धा इव किं शुकाः ॥ ७ नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः । पृथिवीभूषणं राजा विद्या सर्वस्य भूषणं ॥ ८ ॥ माता शत्रुः पिता वैरी येन वालो न पाठितः । सभामध्ये न शोभन्ते हंसमध्ये वका यथा ॥ ८ ॥ Dighted by Google