स्वरेषु बिंदुयुक्तेषु हलां यदवबोधनं ।
तहिंदुमदिति प्राहुः केचिद्धिंदुमतीमिति ॥ २८ ॥
मानसी नाभसीत्यायाः बुध्यादो न्यासतो हि याः ।
वाहुल्येनाप्रयोगात्तु नेह तासां प्रदर्शनं ॥ २८ ॥
नियमचूडारलं मित्रं सिंधोः कुमुद्दतीदयीतः ।
अयमुदयति घुसृणारुणरमणीवदनोपमञ्चन्द्र ॥ ३० ॥
इति विन्दुमज्जातिः ॥
कियादिकं पदे व पदसाधनकौशलात् ।
स्फुटं न लक्ष्यते तत्स्यात् क्रियागुप्तादिकं यथा ॥ ३१
राजन्नव घनश्याम निस्त्रिंशाकर्षदुर्जय ।
आकल्यं वसुधामेतां विडिषो च रणे बहून् ॥ ३२ ॥
पुंस्कोकिलकुलस्यैते नितांतं मधुरारखैः ।
सहकारमारम्यां वसन्ते कामपि श्रियं ॥ ३३ ॥
इति क्रियागुप्तजातिः |
न करोतु नाम रोषं न वदतु परुषं नहन्तु वाशत्रून् ।
रक्षयति महीमखिलां तथापि धीरस्य वीरस्य ॥ ३४ ॥
शरदिंदुकुंदधवलं नगनिस्लयरतं मनोहरन्देवं ।
यैः सुकृतं कृतमनिशन्तेषामेव प्रसादयति ॥ ३५ ॥
कर्तृगुप्तं ॥
शीत्करासारसंवाहो सरोजवनमारुतः ।
प्रक्षोभयति पांथस्त्री निश्वासैरिव मांसलः ॥ ३६॥
सुभगतवाननपञदर्शनसंजातनिर्भरप्रीतेः।