पृष्ठम्:काव्यसंग्रहः.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डनं । निहवात्कथितस्यापि शब्दव्याजादपश्रुतिः ॥ २१ ॥ बहुदोषो गुणध्वंसी गोहन्ता जनपीडकः । करोतु विरथो लोकमस्तमाप्तमहोदयं ॥ २२ ॥ विष्पोः स्तुतिनिन्दे | सततमहितजन वत्सलवहुभयपापक्रियापरिभ्रष्टः । इह कलिकाले कुपतिर्जगतस्त्वं परमदुःखकरः ॥ २३ ॥ राशः स्तुतिनिन्दे ॥ इति स्तुतिनिन्दाजातिः ॥ प्रसन्नवदनः श्रीमानयं लब्धगुणोदयः । करप्रचारसुभगो राजा नंदयति प्रजाः ॥ २४ चन्द्रभूपती ॥ विनायकाहितप्रीतिर्देवो गंगां बभार यः । सर्वदो माधवः स त्वामव्यादव्यर्थविक्रमः ॥ २५ ॥ शङ्करवासुदेवौ । व्यर्थजातिः ॥ शीत्कारं जनयति ब्रणयत्यधरं तनोति रोमाञ्चं । नागरिकः किमु मिलितो नहि नहि सखि चैमनः पवनः ॥ २६ ॥ रुचिरस्वरवर्णपदा रसभाववती जगन्मनो हरति । तत्किं तरुणी नहि नहि वाणी वापस्य मधुरशीलस्य ॥ २७ ॥ अपहतिजातिः ॥ २७ ३०५ Google