ब्रवीति धरणीधरस्तु किमजीर्णसम्बोधनं ।
चरिर्वदति को जितो मदनवैरिणा संयुगे।
तनोति ननु कः शिखण्डिकुलताण्डवाडम्बरं ॥ ४७ ॥
पयोधरसमयः ॥
भवति जयिनी काजौ सेनाह्नयाधरभूषणं
वहति किमहिः पुष्यं कीदृक् कुसुम्भसमुद्भवं ।
महति समरे वैरी वीर त्वया वद कि छतः
कमलमुकुले टङ्गः कीदृक् पिवन्मधु राजते ॥ ४८ ॥
परागरञ्जितः ॥ श्रृंखलाजातिः ॥
श्राह्वानं किं भवति हि तरोः कस्यचित् प्रश्नविज्ञाः
प्रायः कार्ये किमपि न कुलौ कुर्वते के परेषां ।
पूर्णे चन्द्रं वहति ननु का पृच्छति स्वानचक्षुः
केनोदन्या जनितमसमं कष्टमाप्नोति लोकः ॥ ४९ ॥
नीरापकारेण ॥
का संवुडिः सुभट भवतो ब्रूहि पृच्छामि सम्यक्
प्रातः कीदृग्मवति विपिनं संप्रदृडैर्विहगैः ।
लोकः कस्मिन् प्रथयति मुदं का त्वदीया च जैची
प्रायो लोके स्थितमिह सुखं जन्तुना कीदृशेन ॥ ५० ॥
वीच्चारसेविना ॥ एकान्तरितशृङखलाजातिः ॥
गोष्ठी विदग्धजनवत्यपि शोचिनी या
कीदृक् भवेत्तरणिरश्मिषु का सदास्ति।
दुर्वारदर्पदखितामरनायकापि
पृष्ठम्:काव्यसंग्रहः.pdf/३१०
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६७
विदग्धमुखमण्डनं