कश्चित् कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः
शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।
यक्षञ्चके जनकतनयास्त्रानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥
तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी
नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः ।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं
वम़कीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥
तस्य स्थित्वा कथमपि पुरः केतकाधान हेत
रन्तर्वाप्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनो ऽप्यन्ययावृत्ति चेतः
कंठाश्लेषिप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥
प्रत्यासन्ने नभसि दयिताजीवितालम्बनायें
जीमूतेन स्वकुशलमयी हारयिष्यन् प्रवृत्तिं ।
स प्रत्यग्रैः कुटजकुसुमैः कल्पितघीय तस्मै
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥
धूमज्योतिः सलिलमरुतां सन्निपातः व मेघः
सन्देशार्थाः च पटकरणेः प्राणिभिः प्रापणीयाः ।
इत्योत्सुक्यादपरिंगणयन् गुह्यकस्तं ययाचे
कामातीहि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५ ॥
पृष्ठम्:काव्यसंग्रहः.pdf/३१
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
मेघदूताख्यं।