पृष्ठम्:काव्यसंग्रहः.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शृंगारतिलकं । दृष्टिं देहि पुनर्बाले कमलायतलोचने । श्रूयते हि पुरा लोके विषस्य विषमौषधं ॥ १५ ॥ अन्तर्गता मदमवहिशिखावलीया यत् नो वाध्यते किमपि चन्दनलेपनेन । कुम्भकारपवनोपरिपङ्कलेपस् तापाय केवलमसौ न तु तापशान्त्यै ॥ १६ ॥ दृष्ट्वा यासां नयनसुभगं वङ्गवाराङ्गनानां देशत्यागः परमकृतिभिः कृष्णसारैरकारि । तासामेव स्तनयुगजिता दन्तिनः सन्ति मत्ताः प्रायो मूर्खः परिभवविधौ नाभिमानं तनोति ॥ १७ ॥ अपूर्वी दृश्यते यहि कामिन्या स्तनमण्डले । दूरतो दहते गाणं हृदि लग्नस्तु शीतलः ॥ १८ ॥ कुसुमे कुसुमोत्पत्तिः श्रूयते न च दृश्यते । बाले तव मुखाम्भोजे कथमीन्दीवरइयं ॥ १८ ॥ श्रयि मन्मथंचूतमञ्जरि प्रिये श्रवणायतलोचने । अपहृत्य मनः क यासि मे किमराजकमत्र राजते ॥२०॥" कोपस्तया हृदि कृतो मयि पङ्कजाक्षि सोऽस्तु प्रियं तब किमच विधेयमन्यत् । यमदर्पितपूर् उच्चैः समर्पय मदर्पितचुम्बनच ॥ २१ ॥ इति कालिदासकृतं शृङ्गारतिलकं समाप्तं । १७ T 3 Digized by Google