कमतिमधुरमम्बम्भोजनान्ते प्रदेयं ।
प्रियतम वद नीचामन्त्रणे किं पदं स्यात्
कुमतिकृतविवादाञ्चकिरे किं सदर्यैः ॥४१॥ समाधिर ॥
वदतानुत्तमवचनं ध्वनि रुचैरुच्यते स कीहक्षः । [ लिट
तब सुहृदो गुणनिवरिपुनिवहं किं नु कर्तारः ॥ ४२ ॥
२८४
अवमन्तारः ॥
कीदृक्तोयं दुस्तरं स्यान्तितीर्षोः
का पूज्यास्मिन् खड्ज मामन्त्रयस्व |
दृष्ट्वा धूमं दूरतो मानविज्ञाः
किं कर्तास्मि प्रातरेवाश्रयाशं ॥ ४३ ॥
अनुमातासे | लुट्लकारः ॥
कामुकाः स्युः कया नीचाः सर्वः कस्मिन् प्रमोदते ।
अर्थिनः प्राप्य पुण्याहं करिष्यध्वे वसूनि किं ॥ ४४ ॥
दास्यामहे ॥
को दुःखी सर्वकार्येषु किं भृणर्थस्य वाचकं ।
यो यत्र विरतो नित्यन्ततः किं स करिष्यति ॥ ४५ ॥
प्रयास्यति ॥ लृट् ॥
विद्यन्त इति समानार्थः शब्दः
को ऽचिरयति मुद्रां किं ।
कथमपि यदि कोपः स्यातं सुजनः
किं करोतु वद ॥ ४६ ॥ सन्त्यजतु
मेघात्यये भवति का सुभगांवगाहा