सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८१
विदग्धमुखमण्डनं ।


  न भसि प्रस्थितजलदे का राजति देव वद तारा ॥ २१ ॥
इति भनोत्तरजातिः ॥
यत्पृष्टं प्रश्नवाक्ये स्यादादिमध्यान्तसंस्थितं ।
उत्तरं तत् चिधा प्रोक्तमादिमध्यान्तसशितं ॥ २२ ॥
भ्रमरहितः कीदृक्षो भवतितरां
विकसितः पद्मः |
ज्योतिषि कः कीदृक्ष: प्रायो
भुवि पूज्यते लोकैः ॥ २३ ॥
प्रभवः को गङ्गाया नगपतिरतिसुभगशृङ्गन्धरः ।
के से व्यन्ते सेवकसार्थैरत्यर्थ मर्थरतैः ॥ २४ ॥ आद्युत्तरजातिः ॥
अयमुदितो हिमरश्मिर्वनितावदनस्य कीदृशः सदृशः ।
नीलादिकोपलम्भः स्फुरति प्रत्यक्षतः कस्य ॥ २५ ॥
गैरिकमनः शिलादिः
प्रायेणोत्पद्यते कुतो नगतः ।
यः खलु न चलति पुरुषः
स्थानादुक्तः स कीदृक्षः ॥ २६ ॥ इति मध्योत्तरजातिः ॥
कस्मिन्वसन्ति वद मीनगणा विकल्पं
किं वा पदं वदति किं कुरुते विवस्वान् ।
विद्युल्लतावलयवान् पथिकाङ्गनानाम्
उद्देजको भवति कः खलु वारिवाहः ॥ २७ ॥
शब्दः प्रभुगत इति प्रचुराभिधायी
कीडग् भवेद्ददत शब्दविदो विचिन्त्य ।