सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७९
विदग्धमुखमण्डनं ।


दैत्यारातिरसौ वराइवपुषा कामुज्जहारांबुधेः.
का रूपं विनिहन्ति को मधुवधूवैधव्यदीक्षागुरुः ।
स्वछन्दं नवशलकीकवलनैः पंपासरोमज्जनैः
के विंध्याद्रिवने वसन्त्यभिमतक्तीडाभिरामस्थिताः ॥ ६ ॥
कुञ्जराः ॥ इत्योजस्विजातिः ॥
उपमादिरलङ्कारो वहुधा परिकीर्तितः ।
यत्नेन कथ्यते सार्द्धं सालङ्कारं तदुच्यते ॥ ७ ॥
कल्याणवाक् त्वमिव किं पदमच कान्तं .
सद्भूपतेस्वमिव कः परितोषकारी ।
कः सर्वदा वृषगतिस्त्वमिवातिमाचं
भूत्याश्रितः कथय पालितसर्वभूत : ॥ ८ ॥ शंकरः ॥
सूर्यस्य का तिमिरकुंजरहन्दसिंही
सत्यस्य का सुकृतवारिधिचन्द्रलेखा ।
पार्थञ्च कीडगरिदावहुताशनोभूत्
का मालतीकुसुमदाम हरस्य मूर्ध्नि ॥ ८ ॥
भागीरथी ॥ रूपकं सालङ्कारजातिः ॥
लघुदृत्तेन यत् पृ॑ष्टं प्रभूताक्षरमुत्तरं ।
सकौतुकमिती च्छन्ति तद्धिदस्तदिदं यथा ॥ १० ॥
के स्थिराः के प्रियास्त्रीणां को ऽप्रियो नक्तमाशय ।
नृत्यभूः कीदृशी रम्या नदी की हग्घनागसे ॥११॥
अगाधवारिपूरजनिततरङ्गा ॥
का कृता विष्णुना की हग्योषितां कः प्रशस्यते ।