पृष्ठम्:काव्यसंग्रहः.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डनं । का प्रियेण रहिता वराङ्गना धानि केन तनयेन नन्दिता । कीहशेन पुरुषेण पक्षिणां वन्धनं समभिलष्यते सदा ॥ ३० ॥ शकुन्तलाभरतेन ॥ कीदृशं हृदयहारि कूजितं कः सखा यशसि भूपतेर्मतः । कस्तवास्ति विपिने भयाकुलः कीदृशश्च न भवेनिशाकरः ॥ ३१ ॥ २७२ कलङ्कविरहितः ॥ इति व्यस्तसमस्तजातिः ॥ द्विर्व्यस्तमेव यत् पृष्टं समुदायेन यद्भवेत् । चिधाभिन्नं तदेवोक्तं डिर्व्यस्तकसमस्तकं ॥ ३२ ॥ कौ शङ्करस्य वलयावपयोधरः कः कीदृक् परस्य नियतं वशमेति भूपः । संबोधयोरगपतिं विजयी च कीडग् दुर्योधनो नहि भवेद्दद कीदृशश्च ॥ ३३॥ अहीनाक्षतनयः ॥ को मोहाय दुरीश्वरस्य विहितः संबोधनीयो गुरुः को धात्र्यां विरलः कलौ नवघनः किंवन्त्र कीदृग् द्विजः । किं लेखावचनं भवेदतिशयन्दुःखाय कीहक् खलः को विनाधिपतिर्मनोभवसमो मूर्त्या भवन् कीदृशः ॥३४॥ राजीवसबिभवदनः ॥ इति दिर्व्यस्तसमस्तजातिः ॥ द्विः समस्तं यदा पृष्टं व्यस्तकेन पुनर्भवेत् । तद् दिःसमस्तकब्यस्तं कथितं प्रश्नपण्डितैः ॥ ३५ ॥ २ क Digized by Google