पृष्ठम्:काव्यसंग्रहः.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७० विदग्धमुखमण्डनं । एकं भिया निरभिसंधितवैरिभूतं प्रीत्यापरं परमनिर्हतियाजभूतं ॥ ५ ॥ किम्मे ऽथवा इतखलप्रणतावपि स्यात् स स्वी करोति सुजनो यदि मां गुणज्ञः । चन्द्रेण चारुचरितेन विकासितं सत् संकोचितं भवति किं कुमुदन्तमोभिः ॥ ६ ॥ प्रीत्यै सतान्तदनुभावगतावसादः त्यज्य गूढरचनां प्रतिभानुरूपं । क्षिप्रावबोधकरणक्षममोक्षितार्थं वक्ष्ये विदग्धमुखमण्डनमप्रपञ्चम् ॥ ७ ॥ यद्यस्ति सभामध्ये स्थातुं वक्तुं मनस्तदा सुधियः । तांबूलमिव गृहीत्वा विदग्धमुखमण्डनं विश्त ॥ ८॥ प्राहुर्व्यस्तं समस्तं च दिर्व्यस्तं हिःसमस्तकं । तथा व्यस्तसमस्तं च दिर्व्यस्तं हिःसमस्तकं ॥ ६ ॥ सद्दिःसमस्तकव्यस्तमेकालापं प्रभिन्नकं । भेद्यभेदकमोजस्विसालङ्कारं सकौतुकं ॥ १० ॥ प्रश्नोत्तरसमं पृष्टप्रश्नं भनोत्तरं तथा । आदिमध्योत्तराख्ये दे अन्तोत्तरमतः परं ॥ ११ ॥ कथितापज्ञ तिश्चैवविषमं उत्तनासकं । नामाख्यातं च ता च सौचं शब्दीयशास्त्रजे ॥ १२ ॥ वर्णवाक्योत्तरे तहत् श्लोकोत्तरमतः परं । खण्डपादोत्तरे चक्रं पद्मं काकपदं तथा ॥ १३ ॥ Digized by Google 1