पृष्ठम्:काव्यसंग्रहः.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदग्धमुखमण्डनं । सिवौषधानि भवदुःखमागदानां पुण्यात्मनां परमकर्खरसायनानि । प्रक्षालनैकसलिलानि मनोमलानां होदनेः प्रवचनानि चिरं जयन्ति ॥ १ ॥ जयन्ति सन्तः सकतैकभाजनं परार्थसंपादनसतस्थिताः । करस्थनीरोपमविश्चदर्शिनो जयन्ति वैदग्ध्यभुवः कवेर्गिरः ॥ २ ॥ आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा सातत्यं वत मुद्रितेव अतुना नीतेव मूळ विषैः । बढेवातनुरज्जुभिः परगुलाम्बकं न शक्ता सती जिज्ञा लोहशलाकया खलमुखे विद्वेव संलक्ष्यते ॥ ३ ॥ इहानेके सत्यं सततमुपकारिण्युपकृतिं कृतज्ञाः कुर्वन्तो अगति निवसन्त्येव सुधियः । कियन्तस्ते सन्तः सुकृतपरिपाकप्रखयिनो विना स्वार्थं येषां भवति परकृत्यव्यसनिता ॥ ४ ॥ वध्वांजलिं सममसञ्जनसज्जनौ तौ वन्दे नितान्तकुटिलप्रगु खस्वभावौ । Digized by २६६ Google