एकोहि खंजनवरो नलिनीदलस्थो
दृष्टः करोति चतुरङ्गवलाधिपत्यं ।
किं मे करिष्यति भवहृदनारविन्दे
जानामि नो नयनखंजनयुग्ममेतत् ॥ ४ ॥
ये ये खंजनमेकमेव कमले पश्यन्ति दैवात् क्वचित्
ते सर्वे मनुआ भवन्ति सुतरां प्रस्थातभूमीभुजः ।
त्वइक्राम्बुजनेचखंजनयुगं पश्यन्ति ये ये जनास्
ते ते मन्मथवाणजालविकला मुग्धे किमित्यद्भुतं । ॥५॥
झटिति प्रविश गेई मा वहिस्तिष्ठ कान्ते
ग्रहणसमयवेला वर्तते शीतर मेः ।
श्रय सुविमलकान्तिं वीक्ष्य नुनं स राहु
ग्रसति तव मुखेन्दुं पूर्णचन्द्रं विहाय ॥ ६ ॥
कस्थूरीवरपचभङ्गनिकरो भ्रष्टो न गण्डस्थले
नो लुप्तं सखि चन्दनं स्तनतटे धौतं न नेचां जनं ।
रागो न स्खलितस्तवाधरपुटे तांबुलसंवर्धितः
किं रुष्टासि गजेन्द्रमन्दगमने किंवा शिशुस्ते पतिः ॥७॥
समायाते कान्ते कथमपि च कालेन बहुना
कथाभिर्देशानां सखि रजनिरङ्गम् गतवती ।
ततो यावल्लीलाकलहकुपितास्मि प्रियतमे
सपल्लोव प्राची दिगियमभवत् तावदरुणा ॥ ८