पृष्ठम्:काव्यसंग्रहः.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शृंगारतिलकं । एकोहि खंजनवरो नलिनीदलस्थो दृष्टः करोति चतुरङ्गवलाधिपत्य' । किं मे करिष्यति भवद्ददनारविन्दे आनामि नो नयनखंजनयुग्ममेतत् ॥ ४ ॥ ये ये खंजनमेकमेव कमले पश्यन्ति दैवात् क्वचित् ते सर्वे मनुआ भवन्ति सुतरां प्रस्थातभूमीभुजः । त्वइक्राम्बुजनेचखंजनयुगं पश्यन्ति ये ये जनास् ते ते मन्मथवाणजालविकला मुग्धे किमित्यद्भुतं । ॥५॥ झटिति प्रविश गेई मा वहिस्तिष्ठ कान्ते ग्रहणसमयवेला वर्तते शीतर मेः । श्रय सुविमलकान्तिं वीक्ष्य नुनं स राहु ग्रसति तव मुखेन्दुं पूर्णचन्द्रं विहाय ॥ ६ ॥ कस्थूरीवरपचभङ्गनिकरो भ्रष्टो न गण्डस्थले नो लुप्तं सखि चन्दनं स्तनतटे धौतं न नेचां जनं । रागो न स्खलितस्तवाधरपुढे ताम्बुलसंवर्धितः किं रुष्टासि गजेन्द्रमन्दगमने किंवा शिशुस्ते पतिः ॥७॥ समायाते कान्ते कथमपि च कालेन बहुना कथाभिर्देशानां सखि रजनिरहें गतवती । ततो यावलीलाकलहकुपितास्मि प्रियतमे सपनोव प्राची दिगियमभवत् तावदरुणा ॥ ८ ॥ Digi: red by Google १५