पृष्ठम्:काव्यसंग्रहः.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- मोहमुङ्गरः । विद्धि व्याधिव्यालग्रस्तं लोकं शोकहतच समस्तं ॥ ५ ॥ तत्त्वं चिन्तय सततं चित्ते परिहर चिन्तां नश्वरविते । क्षणमिह सज्जनसङ्ग तिरेका भवति भवार्नवतरणे नौका ॥ ६ ॥ ऋष्टकुलाचलसप्तसमुद्रा ब्रह्मपुरन्दरदिनकररुद्राः । न त्वं नाहं नायं लोकः तदपि किमर्थं क्रियते शोकः ॥ ७ ॥ यावदित्तोपार्जनशक्तः तावन्निजपविवारो रक्तः । तद्नु च जरया जर्जरदे वाता कोपि न पृच्छति गेहे ॥ ८ ॥ कामं क्रोधं लोभं मोहं त्यक्वात्मानम्पश्यति कोहं । आत्मज्ञानविहीना मूटाः ते पच्यन्ते नरके नियूटाः ॥ ६ ॥ सुरमन्दिरतरुमूलनिवासः शय्या भूतलमजिनं वासः । सर्वपरिग्रहभोगत्यागः कस्य सुखं न करोति विरागः ॥ १० ॥ Digic red by Google