पृष्ठम्:काव्यसंग्रहः.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोहमुङ्गरः । वालस्तावत् क्रीडासक्तः तरुणस्तावत् तरुणीरक्तः । वृद्धस्तावञ्चिन्तामग्नः परमे ब्रह्मणि कोपि न लग्नः ॥ ११ ॥ शचौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसन्धौ । भव समचित्तः सर्वच त्वं वांद्यस्यचिराद् यदि विष्णुत्वं ॥ १२ ॥ यावञ्जननं तावश्मरणं तावञ्जननीजठरे शयनं । इति संसारे स्फुठतरदोषः कथमिह मानव तव सन्तोषः ॥ १३ ॥ दिनयामिन्धौ सायं प्रातः शिशिरवसन्तौ पुनरायातः । कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायुः ॥ १४ ॥ अङ्गं गलितं पलितं मुण्डं दन्तविहीनं यातं तुण्डं । करश्वतकम्पितशोभितदण्डं तदपि न मुञ्चत्याशाभाण्डं ॥ १५ ॥ त्वयि मयि चान्यचैको विष्णुः व्यर्थऋष्यसि मय्यसहिष्णुः । Digi zed by Google २६७