सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६३
आनन्दलहरी।


तथाहोते नीताः शतमखमुखाः सिविमतुलां
तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः ॥ १३॥
गतास्ते पञ्चत्वं द्रहिणहरिरुद्रेश्वरशिवाः
शिवस्वच्छछायाघटितकपटप्रच्छदपटः ।
त्वंदीयानां भासां प्रतिफलन लाभारुखतया
शरीरी शृङ्गारो रसइव दृशां दोग्धि कुतुकं ॥ १४ ॥
कलङ्कः कस्तूरीरजनिकरविम्बं अलमयं
कलाभिः कर्पूरैर्मरकतकरण्डं निविडितं ।
अतस्त्वजोगेन प्रतिदिनमिदं रिक्तकुहरं
विधिर्भूयो भूयो निविडयति नूनं तव कृते ॥ ८५ ॥
स्वदेहोभूताभि र्घृणिभिरणिमाद्याभिरभितो
निषेव्ये नित्ये त्वामहमिति सदा भावयति यः ।
किमाञ्चर्यं तस्य चिणयनसमृद्धिं तृणयतो
महासम्बर्ताग्निर्विरचयति नीराजनविधिं ॥ १६ ॥
समुद्भूतस्थूलस्तनभरमुरश्चारुहसितं
कटाक्षे कन्दर्पाः कतिचनकदम्बद्युतिवपुः ।
रहस्यं त्वजान्तिं मनसि अनयन्तः समतुलां
भवत्यां ये भक्ताः परिणतिरमीषामियमुमे ॥ १७ ॥
कलत्रं बधाचं कति कति भजन्ते न कवयः
श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः ।
महादेवं हित्वा तव सति सतीनामचरमे
कुचाम्यामासङ्गः कुरुवक्रतरोरप्यसलभः ॥ १८॥