पृष्ठम्:काव्यसंग्रहः.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ आनन्दलहरी । पदन्ते कान्तीनां प्रपदमपदं देवि विपदां कथं नीतं सद्भिः कठिनकमठीकर्परतुलां । कथम्बा वाहुभ्यामुपयमनकाले पुरभिदा तदादाय न्यस्तं दृशदि दयमानेन मनसा ॥ ८८॥ नखैर्नाकस्त्रीणां करकमलसको चशशिभिस् तरूणां दिव्यानां इसत इव ते चण्डि चरणौ । फलानि स्वःस्थेभ्यः किशलयकराग्रेण ददतां दरिद्रेभ्यो भद्रां श्रियमनिशमहाय ददतौ ॥ ८ ॥ कदा काले मातः कथय कलितालक्तकरसं पिवेयं विद्यार्थी तब चरणनिर्सेजनजलं । प्रकृत्या मूकानामपि च कविताकारणतया यदाधत्ते वाणी मुखकमलताम्बूलरसतां ॥ १० ॥ पदन्यासक्रीडापरिचयमिवालन्धुमनसश् चरन्तस्ते खेलां भवनकलहंसा न जइति । सुविक्षेपे शिक्षां सुभगमणिमञ्जीररहित च्छलादाचक्षाणं चरणकमलं चारुचरितं ॥ १ ॥ अराला केशेषु प्रकृतिसरलानन्दहसिते शिरीषाभा गाये हशदिव कठोरा कुचतटे । भृशं तन्वी मध्ये पृथुरसि वरारोहविषये जगत्त्रातुं शम्भोर्जयति करुणा काचिदरुणा ॥ १२ ॥ पुरारातेरन्तःपुरमसि ततस्त्वचरणयोः सपर्या मर्यादातरुणकरुखा नाम सुलभा । Tigitzed by Google