सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५९
आनन्दलहरी।


कदाचिदा साम्यं व्रजतु कलया हन्त कमलं
यदि क्रीडलक्ष्मीचरणतलखा क्षारुणदलं ॥ ७१॥
समन्देवि स्कन्दद्विपवदनपीतं स्तमयुगं
तवेदं नः खेदं हरतु सततं प्रस्तुतमुखं ।
यदा लोक्याशङ्काकुलितहृदयो हासजनकः
स्वकुम्भौ हेरम्बः परिम्दशति इस्तेन इटिति ॥ ७२ ॥
अमू ते वक्षोजावस्तरसमाणिक्यकलसौ
न सन्देहस्पन्दो नगपतिपताके मनसि नः ।
पिवन्तौ तौ यस्मादविदितवधूसङ्गमरसौ
कुमारावद्यापि दिरदबदनक्रौञ्चदलनौ ॥ ७३ ॥
वहृत्यम्बस्तम्बेरमवदनकुम्भप्रसृतिभिः
समावहां मुक्तामखिभिरमखां चारजतिकां ।
कुचाभोगो विम्बाधररुचिभिरन्तःशरलितां
प्रतापव्यामिश्रां पुरविजयिनः कीर्तिमिव ते ॥ ७४॥
कुचौ सद्यः स्विद्यत्तुटघटितकुर्पासभिदुरौ
कषन्तौ दोर्मूलं कनककलसाभौ कलयतां ।
भयात् चातुं भङ्गादुदरमविषमं तनुभुवा
विधावढं देवि त्रिवलिनवलीवलिभिरिव ॥ ७५॥
तव स्तन्धं मन्ये धरणिधरकन्धे हृदयतः
पयः पारावारः परिहरति सारस्वत इव ।
दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत्
कवीनां प्रौढानामजनि कमनियं कवयिता ॥ ७६ ॥