पृष्ठम्:काव्यसंग्रहः.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ आनन्दलहरी | विपंच्या गायन्ती विविधमवदामं पशुपतेस् तयारब्धे वक्तं चलितशिरसा साधुवदने । त्वदायै र्माधुर्यैरयलपिततन्त्रीकलरवां निजाम्बीणां वाणी निचुलयति चोलेन निभृतं ॥६६॥ कराग्रेण स्पृष्टं तहिनगिरिमा वत्सलतया गिरोशेनोदन्तं महुरधरपानाकुलतया । करग्राह्यं शम्भोर्मुखम कुरहन्तं गिरिसुते कथङ्कारं ब्रूमस्तवचिबुकमौपम्यरहितं ॥ ६७ ॥ भुजावेषानित्यं पुरदमयितुः कंटकवती तव ग्रीवाधते मखकमलनालश्रियमियं । स्वतः श्वेताकालागुरुवहुलजम्बालमलिना मृणालीलालित्यं ब्रजति तदधोहारलतिका ॥ ६८ ॥ गले रेखास्तिखो गतिगमकगीतै कनिपुणे विवादव्या लब्धस्वगुणगणसंख्या प्रतिभुवः । विराजन्ते नानाविधमधुररागांकुरभुवां चयाणां ग्रामाणां स्थितिनियमसीमानश्व ते ॥ ६८ ॥ मृणालीमुडीणां तव भुजलतानां चतसनां चतुर्भिः सौन्दर्यं सरसिजभवस्तौति वदनैः । नखेभ्यः सन्त्रस्यन् प्रमथदलनादन्धकरिपोश् चतुन शीर्षाणां सममभयहस्तार्पणधिया ॥ ७० ॥ नखानामुद्योतैर्नवनलिनरागं विहसतां कराणान्ते कान्तिं कथय कथयामः कथममी । higi, red by Google 1