पृष्ठम्:काव्यसंग्रहः.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दलहरी । चमत्कारश्चाघाचलितशिरसः कुण्डलगणो झनत्कारैस्तारैः प्रतिवचनमाचष्टय ते ॥ ६० ॥ असौ नासावंशस्तुहिनगिरिवंशध्वजपटे त्वदीयो नेदीयः फलंतु फलमस्माकमुचितं । वहनन्तर्मुक्ताः शिशिरतरनिश्वासघटिताः समृद्ध्या यस्तासां वहिरपि च मुक्तामणिधरः ॥ १ प्रकृत्यारक्तायास्तव सुदति दन्तच्छदरुचेः प्रवश्ये सादृश्यं अनयतु कथं विद्रुमलता। न विम्बं तडिम्बप्रतिफलनलाभादरुणितं तुला मध्यारोटुं कथमपि विलज्जेत कलया ॥ ६२ ॥ स्मितज्योत्नाजालं तव वदनचन्द्रस्य पिवतां चकोराणामासीदतिरसतया चच्चुअडिमा । २५७ तस्ते शीतांशोरमृतलहरीरत्नरुचयः पिवन्ति स्वच्छन्दं निशि निशि भृशं काच्चिकधिया ॥६३॥ अविश्रान्तं पत्थुर्गुणंगणकथांम्रेडनजड़ा जवापुष्पछाया जननि तव जिह्वा विजयते । यदग्रासीनायाः स्फटिकहशदच्छच्छविमयी सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ ६४ ॥ रणे जित्वा दैत्यानपहृतशिरोस्त्रैः कवचिभिर् निवृत्तै श्रण्डांशचिपुरहरनिर्माल्यविमुखैः । विरिञ्चीन्द्रोपेन्द्रैः शशिसकलकर्पूररुचिरा विलयन्ते मातस्तव वदनताम्बूलकणिकाः ॥ ६५ ॥ छ ed by Google