पृष्ठम्:काव्यसंग्रहः.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ आनन्दलहरी | तवापर्णे कर्णे जपनयनपेशुन्य चकिता विलीयन्ते तोये नियतमणिमेषाः सफरिकाः । इयच श्रीरईच्छदपुटकवाटं कुवलयं जहाति प्रत्यूषे निशिच विघटव्य प्रविशति ॥ ५५ ॥ निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती तवेत्याहुः सन्तो धरणिधरराजन्य तनये । त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः परिचातुं शङ्खे परिहृतनिमेघास्तव दृशः ॥ ५६ ॥ दृशा द्राघीयस्था दरदलितनीलोत्पलरुचा दवीयांसन्दीनं स्नपय कृपया मामपि शिवे | अनेनायं धन्यो भवति नच ते हानिरियता वने वा हम्मे वा समकरनिपातो हिमकरः ॥ ५७ ॥ अरा ते पाणीयुगलमगराजन्य तनये. न केषामाधत्ते कुसुमशरकोदण्डकुतुकं । तिरश्चीनो यत्र श्रवणपथमुलंग्य विलसन् अपाङ्गव्यासङ्गो दिशति शरसन्धानधिषणां ॥५८॥ - स्फुरङ्गण्डाभोगप्रतिफलितताडङ्कयुगलं चतुश्चक्रं शङ्क् तव मुखमिदं मन्मथरथं | यमारुह्य द्ब्रह्मत्यवनिरथमर्केन्दुचरणं महावीरो मारः प्रमथपतये स्वं जितवते ॥ ५८ ॥ सरस्वत्याः सूक्तीरसृतलहरीकौशलभिदः पिवन्त्याः सर्वाणि श्रवणचुणुकाभ्यामविकसं । night red by Google