पृष्ठम्:काव्यसंग्रहः.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ आनन्दलहरी । वहन्ती सिन्दूरं प्रवलकवरीभारतिमिर दिषां वृन्दै वन्दीकृतमिव नवीनाकिरणं | तनोतु क्षेमं नस्तव बदनसौन्दर्यलहरी परीवाछश्रोतःसरणिरिव सीमन्तसरणिः ॥ ४४ ॥ अरालैः स्वाभाव्यादलिकरभसश्रीभिरलकैः परीतं ते वक्त्रं परिहसति पढेरुहरुचिं | दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे सुगन्धौ माद्यन्ति स्मरमथनचक्षुर्मधुलिहः ॥ ४५ ॥ ललाटं लावण्यसुतिविमलमाभाति तव यत् द्वितीयं तम्मन्ये मुकुटशशिखण्डस्य शकलं । विपर्यासन्यासादभयमभिसन्धाय मिलितः सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥ ४६ ॥ भुवौ भुने किश्चियनभयभङ्गव्यसनिनि त्वदीये नेचाभ्यां मधुकररुचिभ्यां धृतगुणे । धनुर्मन्ये सब्येतरकरग्रहीतं रतिपतिः प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमिदं ॥४७॥ अहः सूते ऽसव्यं तव नयनमर्कात्मकतया चियामां वामं ते सृजति रजनीनायकतया । तृतीया ते दृष्टिर्दरदलित हेमाम्बुजरुचिः समाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरों ॥४७॥ विशाला कल्याणी स्फुटरुचिरयोध्या कुबलयैः कृपापारावारा किमपि मधुराभोगलतिका । Digi: zed by Google 1