पृष्ठम्:काव्यसंग्रहः.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दलहरी । यदालापादष्टादशगुणित विद्यापरिणतिर् यदादत्ते दोषांद्गुणमखिलाः पयव ॥ ३८॥ तडित्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया स्फुरम्नानारत्नाभरणपरिणजेन्द्रधनुषं । तमश्यामं मेघं कमपिमणिपूरैकसरखिं निषेवे वर्षन्तं हरमिहिरतप्तं चिभुवनं ॥ ३८ ॥ तव स्वाधिष्ठाने हुतवहमधिष्ठाय नियतं समोडे सम्बर्तं जननि जननीं ताश्च समयां । यदालोके लोकान् दहति महति क्रोधकलिने दयार्द्रा ते दृष्टिः शिशिरमुपचारं रचयति ॥ ४० ॥ तवाधारे मूले सह समयया स्वास्यपरया भवात्मानं वन्दे नवरसमाताण्डवनटं । उभाभ्यामेताभ्यामुभयविधिमुद्दिश्य दयया सनाथाभ्यां जज्ञे जनकजननीमञ्जगदिदं ॥ ४१ गतै र्माणिक्यैक्यं गगणमणभिः सान्द्रघटितं किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः । समीपे यछाया स्फुरणकिरणं चन्द्रशकलं धनुः सौनासीरं किमिदमिति वध्नाति धिषणां ॥ ४२ ॥ धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरदल घनं सक्षं स्त्रिग्धं चिकुरनिकुरूम्बं तव शिवे यदीयं सौरभ्यं सहजमुपलब्धं सुमनसो वसन्त्यस्मिन् मन्ये वस्लमथनवाटीविटपिनां ॥ ४३ ॥ Digi: red by Google २५३