पृष्ठम्:काव्यसंग्रहः.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ आनन्दलहरी । स्मरं योनिं लक्ष्मीं चितयमिदमाद्ये तव मनो निधायैके नित्ये निरवधिमहाभोगरसिकाः । जपन्ति त्वां चिन्तामणिगुणनिवढाक्षरलयाः शिवानौ जुञ्जन्तः सुरभिघृतधाराष्टुतिशतैः ॥ ३३ ॥ शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगं तवात्मानं मन्ये भगवति भवात्मानमनघं । अतः शेषः शेषीत्ययमुभयसाधारणतया स्थितःसम्बन्धो वां सरसपरमानन्दपदयोः ॥ ३४ ॥ मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि त्वमापरत्व भूमिस्त्वयि परिणतायां नहि परं । त्वमेष स्वात्मानं परिणमयितुं विश्ववपुषा चिदानन्दाकारं शिवयुवतिभावेन विभूषे ॥ ३५॥ तवाज्ञाचक्रस्थं तपन शशिक परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता । यमाराडुं भक्तवा रविशशिशुचीनामविषये निरालोके लोको निवसति निजालोकभवने ॥ ३६॥ विशुद्धौ ते शुद्धस्फटिकविषदं व्योमसदृशं शिवं सेवे देवीमपि शिवसमानव्यसनिनीं । ययोः कान्त्या यान्त्या शशिकिरण सारुप्यसरणीं विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ ३७॥ समुन्मीलत् सम्बित् कमलमकरन्दैकर सिकं भजेहं सद्दन्दं किमपि महतां मानसचरं । - by Google Digi: red by