पृष्ठम्:काव्यसंग्रहः.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दलहरी । प्रणामःसम्बेशः सुखमखिलमात्मार्पणदशा सपर्या पर्यायस्तव भवतु यन्मे विलसितं ॥ २७ ॥ ददाने दोनेभ्यः श्रियम निश्मात्मानुसहशी ममन्दं सौन्दर्य्यस्तवकमकरन्दं विकिरति । तवास्मिन्मन्दारस्तवकशुभगे यातु चरखे निमज्जन्मज्जीवः करणचरणैः षट्चरखतां ॥ २८ ॥ सुधामप्यास्वाद्य प्रतिभयजरा मृत्युहरियों विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः । करालं यत् क्षेडं कवलितवतः कालकलना न शम्भोस्तन्मूलं अननि तव ताडाङ्कमहिमा ॥२१॥ किरीटं वैरवं परिहर पुरः कैटभभिदः कठोरे कोटिरे स्खलसि जहि जम्मारिमुकुटं । प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं भवस्याभ्युत्थाने तब परिजनोक्तिर्विजयते ॥ ३० ॥ चतुःषष्ट्या तन्त्रैः सकलमभिसन्धाय भुवनं स्थितस्त त्तत्सिद्धिप्रसवपरतन्त्रः पशुपतिः । पुनस्तन्निर्घन्धादखिलपुरुषायैक घटनात् स्वतन्त्रन्ते तन्त्वं क्षितितलमवातीतरदिदं ॥ ३१ शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः स्मरो हंसः शत्रुस्तदनु च परामारहरयः । श्रमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता भजन्ते ते वर्णास्तव जननि नामावयवतां ॥ ३२ ॥ Digized by Google २५१.