पृष्ठम्:काव्यसंग्रहः.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दलहरी । रुणतरशृङ्गारलहरीं विरिच्चि प्रेयस्यास्त गभीराभिर्वा भिर्विदधति सभारञ्जनमयीं ॥१६॥ सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिर् वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयति यः । स कर्ता काव्यानां भवति महतां भनिशुभगेर वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥ १७ ॥ तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिर् दिवं सर्वामुर्वीमरुणिमणिमनां स्मरति यः । भवन्त्यस्य चस्यद्दनहरिणशालीननयनाः सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥ १८ ॥ मुखं विन्दु कृत्वा कुचयुगमधस्तस्य तदधो हरस्याईं ध्यायेवरमहिषि ते मन्मथकलां। स सद्यः संक्षोभं नयति वनिता इत्यति लघु चिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगां ॥ १८ ॥ किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं हृदि त्यामाधत्ते हिमगिरिशिलामूर्तिमिव यः । स सर्पाणां दर्पं शमयति शकुन्ताधिपद्रव ज्वरलुष्टं दृष्ट्या सुखयति सुधासारसिचया ॥ २० ॥ तडिल्लेखातन्वीं तपनशशिवैश्वानरमयीं निषन्नां पन्नामप्युपरि कमलानां तव कलां । महापद्माटव्यां मुदितमलमायेन मनसा महान्तः पश्यन्तो दधति परमाह्लादलहरीं ॥ २१ । स 32 Digized by २४६ Google