पृष्ठम्:काव्यसंग्रहः.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दलहरी । स्मरोऽपि त्वां नत्वा रतिनयनले ह्येन वपुषा मुनीनामप्यन्तः प्रभवति हि मोहाय महतां ॥ ५ धनुः पौष्यं मौर्वी मधुकरमयी पञ्चविशिखा वसन्तः सामन्तो मलयमरुदायोधनरथः । तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपाम् अपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥ ६ ॥ कणत्काबीदामा करिकरभकुम्भस्तनभरा परिक्षीणा मध्ये परिणतशरञ्चन्द्रवदना । धनुर्वाणान् पाशं शृणिमपि दधाना करतलैः पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥ ७ ॥ सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिहते मणिदीपे नीपोपवनवति चिन्तामणिगृहे । शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां भजन्ति त्वां धन्याः कति च न चिदानन्दलहरीं ॥ ८ ॥ महीं मूलाधारे कमपि मणिपूरे हुतवहं स्थितं स्वाधिष्टाने हृदि मस्तमाकाशमुपरि | मनोपि भ्रूमध्ये सकलमपि भित्वा कुलपथं सहस्रारे पद्मे सह रहसि पत्या विहरसि ॥ ८॥ सधाधारासारैश्चरणयुगलान्तर्विगलितैः प्रपञ्च॑ सिञ्चन्ती पुनपरि रसाम्नायमहसा | श्रवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ १० ॥ dby Google २४७ Digi: red by