पृष्ठम्:काव्यसंग्रहः.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६. आनन्दलहरी । शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं नचेदेवं देवो न खस्नु कुशलः स्पन्दितुमपि । अतस्त्वामाराध्यां हरिहरविरिष्यादिभिरपि प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ १ ॥ तनीयांसं पांशुं तव चरणपङ्गेरुहभवं विरिश्चिः सञ्चिन्वन् विरचयति लोकानविकस्लं । वहत्येनं शौरिः कथमपि सहस्रेण शिरसा हरः संक्षुभ्यैनं भजति भसितोडूननविधिं ॥ २ ॥ अविद्यानामन्त स्तिमिर मिहिरोद्दीपनकरी जडानां चैतन्यं स्तवकमकरन्दश्रुतिशिरा | दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति ॥ ३ ॥ त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः त्वमेकानैवासि प्रकटितवराभिव्यभिनया । भयात् चातुं दातुं फलमपि च वांछासमधिकं शरण्ये लोकानां तव हि चरणावेवनिपुनौ ॥ ४ ॥ हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननी पुरा नारीभूत्वा स्मररिपुमपि क्षोभमनयत् । Google Digi: zed by 1