एतत् पृष्ठम् परिष्कृतम् अस्ति
२४६
आनन्दलहरी ।
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
नचेदेवं देवो न खस्नु कुशलः स्पन्दितुमपि ।
अतस्त्वामाराध्यां हरिहरविरिष्यादिभिरपि
प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ १ ॥
तनीयांसं पांशुं तव चरणपङ्गेरुहभवं
विरिश्चिः सञ्चिन्वन् विरचयति लोकानविकस्लं ।
वहत्येनं शौरिः कथमपि सहस्रेण शिरसा
हरः संक्षुभ्यैनं भजति भसितोडूननविधिं ॥ २ ॥
अविद्यानामन्त स्तिमिर मिहिरोद्दीपनकरी
जडानां चैतन्यं स्तवकमकरन्दश्रुतिशिरा |
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति ॥ ३ ॥
त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः
त्वमेकानैवासि प्रकटितवराभिव्यभिनया ।
भयात् चातुं दातुं फलमपि च वांछासमधिकं
शरण्ये लोकानां तव हि चरणावेवनिपुनौ ॥ ४ ॥
हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननी
पुरा नारीभूत्वा स्मररिपुमपि क्षोभमनयत् ।