प्रथममगुरु षट्कं विद्यते यत्र कान्ते
तदनु च दशमं चेदक्षरं हादशान्त्यं ।
गिरिभिरथ तुरर्य कान्ते विरामः
सुकविजममनोशा मालिनी सा प्रसिद्धा ॥ ३५॥
सुमुखि लघवः पञ्च प्राच्यास्ततो दशमान्तिमः
तदनु ललितालापे वर्णौ तृतीयचतुर्थकौ ।
प्रभवति पुनर्यचोपान्त्यः स्फुरन्कनकप्रभे
यतिरमि रसैर्वेदरश्चैः स्मृता हरिणीति सा ॥ ३६॥
यदि प्राच्यो ह्रस्वस्तुलितकमले पञ्च गुरुवत्
ततो वर्णाः पञ्च प्रकृतिसुकुमारांगि लघवः ।
चयोन्ये चोपान्त्याः सुतनुजघने भोगसुभगे
रसैरीशैर्यस्यां भवति विरतिः सा शिखरिणी ॥ ३७॥
द्वितीयमलिकुन्तले गुरु षडष्टमद्वादशं
चतुर्दशमथ प्रिये गुरु गभीरनाभीहृदे ।
सपञ्चदशमान्तिमं तदनु यत्र कान्ते यतिर्
गिरिन्द्रफणभृत्कुलैर् भवति सुभ्रु पृथ्वीति सा ॥ ३८॥
चत्वारः प्राक् सुतनु गुरवो दौ दशैकादशौ चेन्
मुग्धे वर्णौ तदनु कुमुदामोदिनि द्वादशान्त्यौ ।'
तदच्चान्त्यौ युगरसहयै र्यच कान्ते विरामो
मन्दाक्रान्तां प्रवरकवयस्तम्वि तां सङ्गिरन्ते ॥ ३८ ॥
आद्यं यत्र गुरुत्रयं प्रियतमे षष्ठं ततश्चाष्टाकं
सन्त्येकादशतस्त्रयस्तदनु चेदष्टादशाद्यान्तिमाः ।
पृष्ठम्:काव्यसंग्रहः.pdf/२६
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
श्रुतबोधः