पृष्ठम्:काव्यसंग्रहः.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रुतबोधः । प्रथममगुरु षट्कं विद्यते यत्र कान्ते तदनु च दशमं चेदक्षरं हादशान्त्यं । गिरिभिरथ तुरर्य कान्ते विरामः सुकविजममनोशा मालिनी सा प्रसिद्धा ॥ ३५॥ सुमुखि लघवः पच्च प्राच्यास्ततो दशमान्तिमः तदनु ललितालापे व तृतीयचतुर्थको । प्रभवति पुनर्यचोपान्त्यः स्फुरन्कनकप्रभे यतिरमि रसैर्वेदरश्चैः स्मृता हरिणीति सा ॥ ३६॥ यदि प्राच्यो इस्वस्तुलितकमले पञ्च गुरुवस् ततो वर्णाः पञ्च प्रकृतिसुकुमारांगि लघवः । अयोन्ये चोपान्त्याः सुतनुजघने भोगसुभगे रसैरीशैर्यस्यां भवति विरतिः सा शिखरिणी ॥ ३७॥ द्वितीयमलिकुन्तले गुरु षडष्टमदादशं चतुर्दशमथ प्रिये गुरु गभीरनाभी हदे । सपञ्चदशमान्तिमं तदनु यत्र कान्ते यतिर् गिरिन्द्रफणभृत्कुलैर् भवति सुभ्रु पृथ्वीति सा ॥ ३८॥ चत्वारः प्राक् सुतनु गुरवो दो दशैकादशौ चेन् मुग्धे व तदनु कुमुदामोदिनि हादशान्त्यौ ।' तदच्चान्त्यौ युगरसहयै र्यच कान्ते विरामं मन्दाक्रान्तां प्रवरकवयस्तम्वि तां सनिरन्ते ॥ ३८ ॥ आद्यं यत्र गुरुचयं प्रियतमे षष्ठं ततञ्चाष्टमं सत्येकादशतस्त्रयस्तदनु चेदष्टादशाद्यान्तिमाः । Digized by Google