एतत् पृष्ठम् परिष्कृतम् अस्ति
२४४
वानराष्टकं ।
ईर्षी दक्षः क्रतौ रूपं स्तब्धः शुष्केन्धनं जवः ।
दूर्मन्त्रिणमिति श्लोकाः कथिता वानराष्टके |
ईर्षी घृणीत्वसन्तुष्टः कोधनो नित्यशङ्कितः ।
परभाग्योपजीवी च षडेते दुःखभागिनः ॥ १ ॥
दक्षः श्रियमधिगच्छति पथ्याशी कल्यतां सुखमरोगी ।
उद्यक्तो विद्यां तथा धर्मार्थयशांसि विनीतः ॥ २ ॥
कृतौ विवाहे व्यसने रिपुक्षये
यशस्करे कर्मणि मित्रसंग्रहे ।
प्रियासु नारीषु तथैव वान्धवे
प्यतिव्ययो नास्ति नराधिपाष्टसु ॥ ३ ॥
रूपं जरा सर्वसुखानि तृष्णा
खलेषु सेवा पुरुषाभिमानं ।
याञ्चा गुरुत्वं गुणमात्मपूजा
चिन्ता वलं इन्त्यदया च लक्ष्मीं ॥ ४ ॥
स्तब्धस्य नश्यति यशो विषमस्य मैत्री
नष्टक्रियस्य कुलमर्थपरस्य धर्मः ।
विद्याफल व्यसनिनः कृपणस्य वृत्तं