सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४३
वानर्यष्टकं ।

दया च भूते त्रिदिवं नयन्ति ॥ ४ ॥
मूर्खो द्विजातिः स्थविरो गृहस्थो
गृही दरिद्रो धनवांस्तपस्वी ।
वेश्या कुरूपा नृपतिः कुधर्मो
लोके षडेतानि विडम्बितानि ॥ ५ ॥
वैद्यं पानरतं नटं कुपठितं स्वाध्यायहीनं द्विजं
युद्धे कापुरुषं हयं गतरयं मूर्खं परिब्राजकं ।
राजानञ्च कुमन्त्रिभिः परिदृतं देशच सोपद्रवं
भार्यां यौवनगर्वितां पररतां मुञ्चन्ति शीघ्रं बुधाः ॥ ६ ॥
सुजीxxx सुविचक्षणः सुतः
सुशासिता स्त्री नृपतिः सुसेवितः ।
सुचिन्त्य चोक्तं सुविचार्य यत् कृतं
सुदीर्घकालेपि न याति विक्रियां ॥ ७ ॥
वृक्षं क्षीणफलं त्यजन्ति विxगाः शुष्कं सरः सारसाः
पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः ।
निर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टश्रियं मन्त्रिणः
सर्वः कार्यवशाज्जनोभिरमते कस्यास्ति को वल्लभः ॥८॥
     इति वानर्यष्टकं समाप्तं ॥