एतत् पृष्ठम् परिष्कृतम् अस्ति
२४२
वानयष्टकं .
माधुर्यं शास्त्रमारोग्यं दानं मूर्खो द्विजातिकः।
वैद्यं सुजीर्णं वृक्षञ्च वानर्युक्तमिद्याष्टकं॥
माधुर्य प्रमदाजनेषु ललितं दाक्षिण्यमार्येजने
शोर्यं शत्रुषु नम्रता गुरुजने धर्मिष्ठता साधुष ।
मर्म्मज्ञेष्ठनुवर्तनं बहुविधं मानं जने पण्डिते
शाद्यं पापिजने नरस्य कथिताः पयन्तमष्टो गुणाः
शास्त्रं सुचिन्तितमपि प्रतिचिन्तनीयं
स्वाराधितोपि नृपतिः परिशङ्कनीयः ।
अङ्के स्थितापि युवतिः परिरक्षणीया
शास्त्रे नृपे च युवतौ च कुतो वशित्वं ॥ २ ॥
आरोग्यमानृxमविप्रवासः
सम्प्रत्यया वृत्तिरभीतिवासः ।
सद्भिर्मनुष्यैः सह संप्रयोगः
षड् जीवलोकेषु सुखानि राजन् ॥ ३ ॥
दानं दरिद्रे विभवेऽपि शान्तिर्
यूनां तपो ज्ञानवताञ्च मौनं ।
ईxनिवृत्तिञ्च सुखोचितानां