पृष्ठम्:काव्यसंग्रहः.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० भ्रमराष्टकं । गन्धाव्यासौ भुवनविदिता केतकी स्वर्णवर्णा पद्मभ्रान्त्या क्षुधितमधुपः पुष्पमध्ये पपात । अन्धीभूतः कुसुमरजसा कंटकैश्चिनपक्षः स्थातुं गन्तुं इयमपि सखे नैव शक्ती दिरेफः ॥ १ ॥ गन्धाढ्यां नवमल्लिकां मधुकरस्यक्ता गतो यूथिकां.. दैवाताच विहाय चम्पकवनं पश्चात् सरोजङ्गतः । वञ्चस्तत्र निशाकरेण विधिना कन्दत्यसौ मूढधीः सन्तोषेण विना पराभवपदं प्राप्नोति मूढो जनः ॥ २ ॥ येऽमी ते मुकुलोजमादनुदिनं त्वामाश्रिताः षट्पदा स्ते भ्राम्यन्ति फलाइवहि वहिरतो दृष्ट्वा न सम्भाषसे । ये कीटास्तवदृक्पथश्च न गतास्ते त्वत्फलाभ्यन्तरे धिक् त्वां चूत यतः परापरपरिज्ञानानभिन्नो भवान् ॥ ३ ॥ नीतं जन्म नवीमनीरजवने पीतं मधु स्वेच्छया मालत्याः कुसुमेषु येन सततं केली कृता हेलया । तेनेयं मधुगन्धलून्धमनसा गुञ्जालतां सेव्यते हा धिग् दैवकृतं स एव मधुपः काङ्क्षां दशां नागतः ॥ ४ ॥ पलाशकुसुमभ्रान्त्या शुकतुण्डे मधुब्रतः । पतत्येष शुकोप्येनं जम्बुभ्रान्त्या जिघांसति ॥ ५ ॥ Digit:zed by Google