पृष्ठम्:काव्यसंग्रहः.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चातकाष्टकं । के वा न सन्ति भुवि तामरसावतंसा हंसावलीवलयिनो जलसंनिवेशाः । किं चातकः फलमवेक्ष्य सवग्रपातां पौरन्दरीमुपगतो नववारिधारां ॥ ३ ॥ रे धाराधर धीरनीरनिकररेषा रसा नीरसा शेषा पूषकरोत्करैरतिखरैरापूरि भूरि त्वया । एकान्तेन भवन्तमन्तरगतं स्वान्तेन सञ्चिन्तयन् श्राञ्चयें] परिपीडीतोऽभिरमते यञ्चातकस्तृष्णया ॥ ४ ॥ २३८ आत्मानमम्मोनिधिरेतु शेषं ब्रह्माण्ड मासिञ्चतु वा तरः । नास्ति क्षतिर्नोपचितिः कदापि 'पयोददृत्तेः खलु चातकस्य ॥ ५ ॥ पोयोद हे वारि ददासि वा नवा त्वदेकचित्तः पुनरेष चातकः । वरं महत्या म्रियते पिपासया तथापि नान्यस्य करोत्युपासनां ॥ ६ ॥ यद्यपि चातकपक्षी क्षपयति जलधरमकालवेलायां । तदपि न कुप्यति अलदे गतिरिह नान्या यतस्तस्य ॥ ७॥ एकएव खगमणिश्चिरं जीवतु चातकः । पिपासया वा म्रियते याचते वा पुरन्दरान् ॥ ८॥ इत्युत्तरचातकाष्टकं समाप्तं । higi. red by Google