पृष्ठम्:काव्यसंग्रहः.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८८ चातकाष्टकं । सम्मानी खलु चातको अलमुचामुच्चैः पयो वांछति ॥ ५ ॥ वीजेरकुरितं नदीभिरुदितं वल्मीभिरुज्जृम्भितं वृक्षैः पलवितं अनैश्च मुदितं धाराधरे वर्षति । भ्रातश्चातक पातकं किमपि ते सम्यङन जानीमहे यत्तेस्मिन्न पतन्ति चञ्चुपुटके दिचाः पयो विन्दवः ॥ ६ ॥ नदेभ्योपि हृदेभ्योपि पिवन्त्यन्येऽवयःपयः । चातकस्य तु जीमूत भवानेवावलम्बनं ॥ ७ ॥ नभसि निरवलम्बे सीदता दीर्घकाल त्वदभिमुखनिविष्टोत्तानचच्चूपुटेन । जलधर जलधारा दूरतस्तावदास्तां ध्वनिरपि मधुरस्ते न श्रुतश्चातकेन ॥ ८ ॥ इति पूर्वचातकाष्टकं समाप्तं ॥ उत्तरघातकाष्टकं । स्वछाः सौम्यजलाशयाः प्रतिदिनं ते सन्तु मा सन्तु वा । स्वल्पं वा बहुधा अस्लं जलधर स्वं देहि मा देहि वा ॥ १ ॥ कासारेषु सरित्सु सिन्धुषु तथा नीचेषु नीरग्रहं.. धिक् तत्रापि शिरोनतिः किमपरं हेयं भवेन्मानितां । इत्यालोच्य विमुच्य चातकयुवा तेषु स्पृहामादराद् उडीवस्तव वारिवाह कुरुते धाराधरालोकनं ॥ २ ॥ Digized by Google 1